|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.179. अध्यायः 179
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति तपोदानादिसत्कर्मणामपि परम्परया सुखसाधनताकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-179-0x(5907)(72185)
यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च।
गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह॥ 12-179-1(72186)
भीष्म उवाच। 12-179-2x(5908)
`यथाऽस्मिंश्च तथा तत्र जानीयां नृपसत्तम।
दुष्कर्तारो यथा लोके यत्कुर्वन्ति तथा शृणु॥' 12-179-2(72187)
आत्मनाऽनर्थयुक्तेन पापे निविशते मनः।
स्वकर्म कलुषं कृत्वा दुःखे महति धीयते॥ 12-179-3(72188)
दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम्।
मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकारिणः॥ 12-179-4(72189)
उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम्।
श्रद्दधानाश्च दान्ताश्च सत्वस्थाः शुभकारिणाः॥ 12-179-5(72190)
व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च।
हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम्॥ 12-179-6(72191)
प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः।
क्षेम्यमात्मवतां मार्गमास्थिता हस्तदक्षिणम्॥ 12-179-7(72192)
पुलाका इव धान्येषु पुत्तिका इव पक्षिषु।
तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम्॥ 12-179-8(72193)
सुशीघ्रमपि धावन्तं विधानमनुधावति।
शेते सह शयानेन येनयेन यथाकृतम्॥ 12-179-9(72194)
उपतिष्ठति तिष्ठन्तं गच्छन्तमनुगच्छति।
करोति कुर्वतः कर्म छायेवाऽनुविधीयते॥ 12-179-10(72195)
येनयेन यथा यद्यत्पुरा कर्म समार्जितम्।
तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना॥ 12-179-11(72196)
स्वकर्मफलनिक्षेपं विधानपरिरक्षितम्।
भूतग्राममिमं कालः समन्तात्परिकर्षति॥ 12-179-12(72197)
अचोद्यमानानि यथा पुष्पाणि च फलानि च।
स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम्॥ 12-179-13(72198)
संमानश्चावमानश्च लाभालाभौ क्षयोदयौ।
प्रवृत्तानि विवर्तन्ते विद्यानान्ते पुनःपुनः॥ 12-179-14(72199)
आत्मना विहितं दुःखमात्मना विहितं सुखम्।
गर्भशय्यामुपादाय भुज्यते पौर्वदेहिकम्॥ 12-179-15(72200)
बालो युवा च वृद्धश्च यत्करोति शुभाशुभम्।
तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि॥ 12-179-16(72201)
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम्।
तथा पूर्वकृतं कर्म कर्तारमनुगच्छति॥ 12-179-17(72202)
संक्लिन्नमग्रतो वस्त्रं पश्चाच्छुध्यति वारिणा।
`दुष्कर्मापि तथा पश्चात्पूयते पुण्यकर्मणा॥ 12-179-18(72203)
तपसा तप्यते देहस्तपसा विन्दते महत्॥'
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम्॥ 12-179-19(72204)
दीर्घकालेन तपसा सेवितेन तपोवने।
धर्मनिर्धूतपापानां संसिद्ध्यन्ते मनोरथाः॥ 12-179-20(72205)
शकुनीनामिवाकाशे मत्स्यानामिव चोदके।
पदं यथा न दृश्येत तथा धर्मविदां गतिः॥ 12-179-21(72206)
अलमन्यैरुपालम्भैः कीर्तितैश्च व्यतिक्रमैः।
पेशलं चानुरूपं च कर्तव्यं हितमात्मनः॥ ॥ 12-179-22(72207)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकोनाशीत्यधिकशततमोऽध्यायः॥ 179॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-179-1 यद्यस्ति सफलमित्यध्याहारः। दत्तेष्टे गृहस्यस्य धर्मः। तपो वानप्रस्थस्य। गुरुशुश्रूषा ब्रह्मचारिणः॥ 12-179-3 नास्तिक्यमनर्थः तेन युक्तेनात्मना कुशास्त्रजिताध्यायसयेन। कलुषं पापम्॥ 12-179-4 मृतेभ्यः प्रमृतं यान्तीति झ. पाठः। तत्र मृतेभ्यो मरणेभ्यः। प्रमृतं मरणान्तरम्। अविलम्बेन पुनःपुनर्म्रियन्त इत्यर्थः॥ 12-179-5 धनाढ्याः शुभकारिण इति झ. पाठः॥ 12-179-6 हस्ताववाप्येते प्रवेश्येते यस्मिन्निति हस्तावापो हस्तनिगडस्तेन निगडिताः सन्तो नास्तिका राष्ट्राद्दूरीकृता व्यालादिमत्सु वनेषु गच्छन्तीत्यर्थः॥ 12-179-7 आतिथेयमतिथिहितं मृष्टान्नदानादि। आत्मवतां जितचित्तानाम्। हस्तदक्षिणं हस्तोपलक्षितेन तत्कर्तव्येन दानादिना कर्मणा दक्षिणमनुकूलम्॥ 12-179-8 पुलाका गर्तोष्मणा भक्तसिक्थवन्नष्ठवीजभावाः। पुत्तिका मशकाः। कारणं सुखादिहेतुः॥ 12-179-9 विधानं प्राक्कर्म धावन्तं यतमानमनुधावति फलप्रदानेनानुसरति। येन येन यथा कृतं तं तं प्रति तथा प्राक्कर्मं फलदमफलदं च भवति॥ 12-179-10 कर्म प्राचीनं छायेवानुविधीयते पुरुषेण स्वस्यातुकूलं क्रियते॥ 12-179-11 नित्यमपरिहार्यम्॥ 12-179-12 स्वकर्मणः फलं स्वर्गपश्वादि तदेव निक्षेपरूपं विधानेन कर्मजन्यादृष्टेन रक्षितं भूतग्रामं प्रति कालः समनुकर्षति॥ 12-179-18 संक्लिन्नं मलेनेति शेषः॥ 12-179-22 उपालम्भैराक्षेपवाक्यैः। व्यतिक्रमैरपराधैः। अलमुक्तैः पर्याप्तम्। पेशकौशलयुक्तं यथास्यात्तथा॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|